Facebook is now Meta(verse) 

श्रीः 

नाम्निकिम् अस्ति ? तत्परिवर्तनेन किं प्रयोजनम् ? आधुनिकेयुगे तु ‘सुमहत्प्रयोजनमित्येव‘ ब्रूमः| संप्रति मुखपुस्तकमिति(facebook) नाम्ना लोकप्रसिद्धा संस्था ‘Meta’ इति नाम्ना इतःपरं कथ्यते इति |  अस्यपरिवर्तनस्य घोषणा तत्संस्थाधिपत्या सद्यैव कृता | संस्थानां नामकरणं कथं क्रियते इतिपरिशीलयामश्चेत्, साधारणतया  उत्पाद्यवस्तुनिर्देशः,संस्थायाः लक्ष्यं /प्रयोजनं वा, प्रजावबोध इत्यादीन् संलक्ष्य क्रियते | तथैव कृतं नामअस्याः संस्थायाः ‘मुखपुस्तकमिति’ (facebook)|  जगति यस्य कस्यापि जनस्य सम्पर्कः स्वस्थाने स्थित्वैव कर्तुं शक्यते निश्शुल्कतया इत्यत्र विशेषः | गतपञ्चदशवर्षेषु भूतले असङ्ख्याकाः जनाः अनया संस्थया योजिताः विशिष्य युवानः | 

केवलंजनानां संपर्कः(Contacts), विचाराणां परस्परविनिमयः(messaging service), गणसंरचना (Groups), चित्रादीनां संविभागः(Sharing pictures/video’s), यथातथदर्शनं (live) इति चित्ताकर्षकविशेषसुविधानां योजनेन (adding unique features) एषा संस्था जनमानसे सुस्थिता जाता, यावती लोकप्रियता तावान् लाभः संस्थायाः| कालान्तारे निम्नलिखितसंस्थानामपि facebook संस्थयां  विलीनं जातम् | 

संस्था संस्थायाः प्रयोजनम् / सेवा / लक्ष्यम् 
Instagram चित्र-दृश्यमुद्रणसंविभागोपक्रमः (Photo and video-sharing app) 
WhatsApp जङ्गम-संदेश-सेवाप्रदात्री (Mobile messenger service) 
Beluga सूचनादानप्रदानव्यवस्थानिर्देशः(Messenger Service) 
Onavo जालान्तर्गत -अङ्कीयांशविश्लेशणप्रविधानम् (Web data Analytics) 
Oculus अध्यास-संज्ञानोपकरणम् (Virtual reality technology company) 

कालप्रभावात्, प्रजाभिमानेन सुदृढा सती एकदशाब्दपर्यन्तं विविधदेशीयानां वैय्यक्तिकवार्ताविशेषाः, तेषाम् रागद्वेषाभिनिवेशसंबद्धाः सर्वे अंशाः सञ्चिताः अनया संस्थाया | तादृशजनसूचनाविशेषसञ्चयनम् (Data collection) इतरवणिग्भ्यो (Other businesses)  विक्रीय धनसंपादने संलग्ना एषा संस्था | तुष्यतु दुर्जनन्यायेन एतावत्परयन्तमपि व्यापारक्षेत्रकोटौ एव अयं व्यवहारः अन्तर्भवति इति चिन्तयामः | एवं संस्था एषा  संवर्धिता | एतत् सर्वं संकलय्य, समीक्ष्य च चित्राभिज्ञानप्रविधयः(Face recognition technology), कृतकप्रज्ञानसुविधा(Artificial Intelligence), संबोधयोग्ययन्त्रांशादीनां(Machine Learning) प्रयोगेन एषा संस्था अधुना विविधदेशेषु समाजेषु च विद्रवकारणभूता सञ्जाता |  तत्कथमिति विचारयामस्तावत्! 

किन्तु अस्यां संस्थायां केवलं धनसम्पादनमुद्दिश्य नैके अधार्मिकाः मार्गाः अनुस्रियन्ते इति तत्संस्थायाः  केचन उद्योगिनः प्रवदन्तो दृश्यन्ते अद्यत्वे | facebook-उपभोक्तॄणां

वैय्यक्तिक-तथ्यांशानां चौर्यं (personal data theft), अधमकरत्वं (tax evasion), द्वेषपूर्णसन्देशानां प्रचारः(spreading hate messages) इत्यादि नैकान् अभियोगान् आरोपयन्ति ते |  बाङ्ग्लादेशे facebook माध्यमे कृत-असत्यकथनानां दुष्प्रचारः, क्षणाभ्यन्तरे असङ्ख्याकजनानां सङ्ग्रहणे, तदनु तैः कारितविद्रवे च उपकरणं कथम् अभूदिति  दृष्टम् | यद्यपि उपभोक्तृभिरेव संदेशानां संस्थापनं, तेषां संविभागश्च क्रियते तथापि वार्तासंप्रसारणनियन्त्रणे(controlling or regulating the content being shared) facebook असमर्था जाता इति वक्तुम् इदमेकमुदाहरणमलम् | वस्तुतः तत्सविधे तादृशाः अभियुक्तयः(Algorithms) संरचिताः सन्ति याभिः द्वेषभावसमन्वितसंदेशानां, तत्प्रचारकानां अभिज्ञानं सुलभतया  झटित्येव कर्तुं शक्नुयुः संस्थागतपर्यवेक्षकाः | किञ्च तादृशप्रविधीनां प्रयोगः केवलं धनसंपादनिमित्तमेव क्रियते अनया संस्थाया इति प्रतिभाति | विशिष्य समाजे द्वेषस्य संप्रसरणेन अमूल्यानां जन-धन-वस्तूनां समूलनाशनं दृष्ट्वापि संवेदनरहिता सन्तः स्वव्यापारसंवर्धने एव रता इयं संस्था इत्यत्र स्पष्टम् | 

संप्रत्यियं संस्था ‘अध्यासजगति'(virtual world) स्वपदं न्यदधात् |अतः facebook सहिताः सर्वाः अपि संप्रति विलीनाः संस्थाः इतः परं ‘Meta’ नाम्ना विख्याताः भवन्तीति वार्ता | ‘Metaverse’ इति विनूतनः कश्चनप्रविधिः यत्र लोकव्यवहाराः (संभाषणं, संपर्कः, क्रय-विक्रयणादि )  सर्वे आभासजगति प्रवर्तेरन्, अस्य संरचानायां प्रवृत्ता एषा संस्था अद्यत्वे | अत “सर्वेऽपि उद्योगिनः, उपभोक्तारः, प्रायोजकाः, निवेशकाः संस्थायाः अस्याः गतिं जानीयुरीति उद्देश्येनअयं नूतनः नामकरणसंस्कारः विहितः” इति Mark Zuckerberg वर्यस्य आख्यानम् | 

किञ्चकृतापराधस्य आच्छादनाय, लोके प्रसृतापकीर्तिगोपनाय, दुष्टपरिणामपलायनाय क्रियमाणोsयंयत्नः इत्यपि ब्रुवते विश्लेषकाः | विनूतनसङ्केतिकोपकरणानाम् प्रयोगात् पूर्वं लोके जनाः तस्य दुष्परिणामान् मनसि निधाय जागरूकासन्तु,  विद्वेषंविहाय लोकाः समस्ताः सुखिनो भवन्तु इति आशास्महे ! 

– इतिशम्- 

2 thoughts on “Facebook is now Meta(verse) 

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

Create your website with WordPress.com
Get started
%d bloggers like this: